Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
छित्त्वा स्नेहं प्रज्ञयात्मन्यशेषं
सत्त्वस्नेहान् नैति शान्तिं कृपावान्
निःश्रित्यैवं धीकृपे बोध्युपायौ
नोपैत्यार्यः संवृतिं निर्वृतिं वा  +
यो बुद्धत्वमनादिमध्यनिधनं शान्तं विबुद्धः स्वयं
बुद्ध्वा चाबुधबोधनार्थमभयं मार्गं दिदेश ध्रुवम्
तस्मै ज्ञानकृपासिवज्रवरधृग्दुःखङ्कुरैकच्छिदे
नानादृग्गहनोपगूढविमतिप्राकारभेत्त्रे नमः  +
बुद्धधातुः सचेन्न स्यान्निर्विद्दुःखेऽपि नो भवेत्
नेच्छा न प्रार्थना नापि प्राणिधिर्निवृतौ भवेत्  +
भवनिर्वाणतद्दुःखसुखदोषगुणेक्षणम्
गोत्रे सति भवत्येतदगोत्राणां न विद्यते  +
महोदधिरिवामेयगुणरत्नाक्षयाकरः
प्रदीपवदनिर्भागगुणयुक्तस्वभावतः  +
धर्मकायजिनज्ञानकरुणाधातुसंग्रहात्
पात्ररत्नाम्बुभिः साम्यमुधेरस्य दर्शितम्  +
अभिज्ञाज्ञानवैमल्यतथताव्यतिरेकतः
दीपालोकोष्णवर्णस्य साधर्म्यं विमलाश्रये  +
तत्र वृत्त्यर्थमारभ्य श्लोकः
पृथग्जनार्यसंबुद्धतथताव्यतिरेकतः
सत्त्वेषु जिगर्भोऽयं देशितस्तत्त्वदर्शिभिः  +
पृथग्जना विपर्यस्ता दृष्टसत्या विपर्ययात्
यथावदविपर्यस्ता निष्प्रपञ्चास्तथागताः  +
अशुद्धोऽशुद्धशुद्धोऽथ सुविशुद्धो यथाक्रमम्
सत्त्वधातुरिति प्रोक्तो बोधिसत्त्वस्तथागतः  +
स्वभावादिभिरित्येभिः षड्भिरर्थेः समासतः
धातुस्तिसृष्ववस्थासु विदितो नामभिस्त्रिभिः  +
सर्वत्रानुगतं यद्वन्निर्विकल्पात्मकं नभः
चित्तप्रकृतिवैमल्यधातुः सर्वत्रगस्तथा  +
असंस्कृतमनाभोगमपरप्रत्ययोदितम्
बुद्धत्वं ज्ञानकारुण्यशक्त्युपेतं द्वयार्थवत्  +
तद्दोषगुणनिष्ठासु व्यापि सामान्यलक्षणम्
हीनमध्यविशिष्टेषु व्योम रूपगतेष्विव  +
दोषागन्तुकतायोगाद् गुणप्रकृतियोगतः
यथा पूर्वं तथा पश्चादविकारित्वधर्मता  +
यथा-सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते
सर्वत्रावस्थितः सत्त्वे तथायं नोपलिप्यते  +
यथा सर्वत्र लोकानामाकाश उबयव्ययः
तथैवासंस्कृते धाताविन्द्रियाणां व्ययोदयः  +
यथा नाग्निभिराकाशं दग्धपूर्वं कदाचन
तथा न प्रदहत्येनं मृत्युव्याधिजराग्नयः  +
पृथिव्यम्बौ जलं वायौ वायुर्व्योम्नि प्रतिष्ठितः
अप्रतिष्ठितमाकाशं वाय्वम्बुक्षितिधातुषु  +
स्कन्धधात्विन्द्रियं तद्वत्कर्मक्लेशप्रतिष्ठितम्
कर्मक्लेशाः सदायोनिमनस्कारप्रतिष्ठिताः  +