Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
गुणाश्चैते चतुःषष्टिः सनिदानाः पृथक् पृथक्
वेदितव्या यथासंख्यं रत्नसूत्रानुसारतः  +
निर्वेधिकत्वनिर्दैन्यनिष्कैवल्यनिरीहतः
वज्रसिंहाम्बरस्वच्छदकचन्द्रनिदर्शनम्  +
बलादिषु बलैः षड्भिस्त्रिभिरेकेन च क्रमात्
सर्वज्ञेयसमापत्तिसवासनमलोद्धृतेः  +
विसंयोगगुणर्युक्तं वपुराद्यं बलादिभिः
वैपाकिकैर्द्वितीयं तु महापुरुषलक्षणैः  +
भेदाद्विकरणाच्छेदाद्वर्मप्राकारवृक्षवत्
गुरुसारदृढाभेद्यं वज्रप्रख्यमृषेर्बलम्  +
गुरु कस्माद्यतः सारं सारं कस्माद्यतो दृढम्
दृढं कस्माद्यतोऽभेद्यमभेद्यत्वाच्च वज्रवत्  +
निर्भयत्वान्निरास्थत्वात्स्थैर्याद्विक्रमसंपदः
पर्षद्गणेष्वशारद्यं मुनिसिंहस्य सिंहवत्  +
सर्वाभिज्ञतया स्वस्थो विहरत्यकुतोभयः
निरास्थः शुद्धसत्त्वेभ्योऽप्यात्मनोऽसमदर्शनात्  +
स्थिरो नित्यसमाधानात् सर्वधर्मेषु चेतसः
विक्रान्तः परमाविद्यावासभूमिव्यतिक्रमात्  +
लौकिकश्रावकैकान्तचारिधीमत्स्वयंभुवाम्
उत्तरोत्तरधीसौक्ष्म्यात् पञ्चधा तु निदर्शनम्  +
सर्वलोकोपजीव्यत्वाद्भूम्यम्ब्वग्न्यनिलोपमाः
लौक्यलोकोत्तरातीतलक्षणत्वान्नभोनिभाः  +
गुणा द्वात्रिंशदित्येते धर्मकायप्रभाविताः
मणिरत्नप्रभावर्णसंस्थानवदभेदतः  +
द्वात्रिंशल्लक्षणाः काये दर्शनाह्लादका गुणाः
निर्माणधर्मसंभोगरूपकायद्वयाश्रिताः  +
शुद्धेर्दुरान्तिकस्थानां लोकेऽथ जिनमण्डले
द्विधा तद्दर्शनं शुद्धं वारिव्योमेन्दुबिम्बवत्  +
बलत्वमज्ञानवृतेषु वज्रव-
द्विशारदत्वं परिषत्सु सिंहवत्
तथागतावेणिकतान्तरीक्षवन्
मुनेर्द्विधादर्शनमम्बुचन्द्रवत्  +
स्थानास्थाने विपाके च कर्मणामिन्द्रियेषु च
धातुष्वप्यधिमुक्तौ च मार्गे सर्वत्रगामिनि  +
ध्यानादिक्लेशवैमल्ये निवासानुस्मृतावपि
दिव्ये चक्षुषि शान्तौ च ज्ञानं दशविधं बलम्  +
स्थानास्थानविपाकधातुषु जगन्नानाधुमुक्तौ नये
संक्लेशव्यवदान इन्द्रियगणे पूर्वे निवासस्मृतौ
दिव्ये चक्षुषि चास्रवक्षयविधावज्ञानवर्माचल-
प्राकारद्रुमभेदनप्रकिरणच्छेदाद्वलं वज्रवत्  +
सर्वधर्माभिसंबोधे विवन्धप्रतिषेधने
मार्गाख्याने निरोधाप्तौ वैशारद्यं चतुर्विधम्  +
ज्ञेये वस्तुनि सर्वथात्मपरयोर्ज्ञानात् स्वयंज्ञापना-
द्धेये वस्तुनि हानिकारणकृतेः सेव्ये विधौ सेवनात्
प्राप्तव्ये च निरुत्तरेऽतिविमले प्राप्तेः परप्रापणा-
दार्याणां स्वपरार्थसत्यकथनादस्तम्भितत्वं क्वचित्  +