Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
श्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम्
न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम्  +
नापनेयमतः किंचिदुपनेयं न किंचन
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते  +
शून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः
अशून्योऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः  +
शून्यं सर्वं सर्वथा तत्र तत्र
ज्ञेयं मेघस्वप्नमायाकृताभम्
इत्युक्त्वैवं बुद्धधातुः पुनः किं
सत्त्वे सत्त्वेऽस्तीति बुद्धैरिहोक्तम्  +
लीनं चित्तं हीनसत्त्वेष्ववज्ञा-
भूतग्राहो भूतधर्मापवादः
आत्मस्नेहश्चाधिकः पञ्च दोषा
येषां तेषां तत्प्रहाणार्थमुक्तम्  +
विविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु
क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम्  +
क्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत्
मायानिर्मितवत् स्कन्धा विपाकाः क्लेशकर्मणाम्  +
यावद्भाविकता ज्ञेयपर्यन्तगतया धिया
सर्वसत्त्वेषु सर्वज्ञधर्मतास्तित्वदर्शनात्  +
पूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे
पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम्  +
तथा ह्यश्रवणादस्य बोधौ चित्तं न जायते
केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः  +
बोधिचित्तोदयेऽप्यस्य श्रेयानस्मीति मन्यतः
बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते  +
तस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः
अभूतं परिगृह्णाति भूतमर्थं न विन्दते  +
अभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः
भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः  +
गृह्णन् दोषानसद्भूतान् भूतानपवदनु गुणान्
मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम्  +
तच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम्
प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः  +
निरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ
आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम्  +
इत्येवं योऽवबोधस्तत्प्रत्यात्मज्ञानदर्शनम्
तच्छुद्धिरमले धातावसङ्गाप्रतिघा ततः  +
ज्ञानदर्शनशुद्ध्या बुद्धज्ञानादनुत्तरात्
अवैवर्त्याद्भवन्त्यार्याः शरणं सर्वदेहिनाम्  +
शास्तृशासनशिष्यार्थैरधिकृत्य त्रियानिकान्
कारत्रयाधिमुक्तांश्च प्रज्ञप्तं शरणत्रयम्  +
स्वलक्षणेनानुगतानि चैषां
यथाक्रमं धारणिराजसूत्रे
निदानतस्त्रीणि पदानि विद्या-
च्चत्वारि धीमज्जिनधर्मभेदात्  +