This is a property of type Text.
Showing 20 pages using this property.
बुद्धश्च धर्मश्च गणश्च धातु-

र्बोधिर्गुणाः कर्म च बौद्धमन्त्यम्

कृत्स्नस्य शास्त्रस्य शरीरमेतत्

समासतो वज्रपदानि सप्त
+अचिन्त्याद्वयनिष्कल्पशुद्धिव्यक्तिविपक्षतः
यो येन च विरागोऽसौ धर्मः सत्यद्विलक्षणः
+विलोक्य तद्वत् सुगतः स्वधर्मता-
मवीचिसंस्थेष्वपि बुद्धचक्षुषा
विमोचयत्यावरणादनावृतो
ऽपरान्तकोटीस्थितकः कृपात्मकः
+यद्वत् स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक् तद्गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत्
रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत्
कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः
+यथा मधु प्राणिगणोपगूढं
विलोक्य विद्वान् पुरुषस्तदर्थी
समन्ततः प्राणिगणस्य तस्मा-
दुपायतोऽपक्रमणं प्रकुर्यात्
+सर्वज्ञचक्षुर्विदितं महर्षि-
र्मधूपमं धातुमिमं विलोक्य
तदावृतीनां भ्रमरोपमाना-
मश्लेषमात्यन्तिकमादधाति
+यद्वत् प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो
मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः
कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु
क्लेशाः क्षुद्रनिभा जिनः पुरुषवत् तद्घातने कोविदः
+धान्येषु सारं तुषसंप्रयुक्तं
नृणां न य[द्व]त्परिभोगमेति
भवन्ति येऽन्नादिभिरर्थिनस्तु
ते तत्तुषेभ्यः परिमोचयन्ति
+सत्त्वेष्वपि क्लेशमलोपसृष्ट-
मेवं न तावत्कुरुते जिनत्वम्
संबुद्धकार्यं त्रिभवे न याव-
द्विमुच्यते क्लेशमलोपसर्गात्
+यद्वत् कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात्
सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम्
तद्वत् क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो
धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने
+यथा सुवर्णं व्रजतो नरस्य
च्युतं भवेत्संकरपूतिधाने
बहूनि तद्वर्षशतानि तस्मिन्
तथैव तिष्ठेदविनाशधर्मि
+तद्देवता दिव्यविशुद्धचक्षु-
र्विलोक्य तत्र प्रवदेन्नरस्य
सुवर्णमस्मिन्नवमग्ररत्नं
विशोध्य रत्नेन कुरुष्व कार्यम्
+निरोधमार्गसत्याभ्यां संगृहीता विरागिता
गुणैस्त्रिभिस्त्रिभिश्चैते वेदितव्ये यथाक्रमम्
+दृष्ट्वा मुनिः सत्त्वगुणं तथैव
क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम्
तत्क्लेशपङ्कव्यवदानहेतो-
र्धर्माम्बुवर्षं व्यसृजत् प्रजासु
+यद्वत् संकरपूतिधानपतितं चामीकरं देवता
दृष्ट्वा दृश्यतमं नृणामुपदिशेत् संशोधनार्थं मलात्
तद्वत् क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः
सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम्
+यथा दरिद्रस्य नरस्य वेश्म-
न्यन्तः पृथिव्यां निधिरक्षयः स्यात्
विद्यान्न चैनं स नरो न चास्मि-
न्नेषोऽहमस्मीति वदेन्निधिस्तम्
+तद्वन्मनोऽन्तर्गतमप्य चिन्त्य-
मक्षय्यधर्मामलरत्नकोशम्
अबुध्यमानानुभवत्यजस्रं
दारिद्रयदुःखं बहुधा प्रजेयम्
+यद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं
न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः
तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमा-
स्तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते
+यथाम्रतालादिफले द्रुमाणां
बीजाङ्कुरः सन्नविनाशधर्मी
उप्तः पृथिव्यां सलिलादियोगात्
क्रमादुपैति द्रुमराजभावम्
+सत्त्वेष्वविद्या दिफलत्वगन्तः-
कोशावनद्धः शुभधर्मधातुः
उपैति तत्तत्कुशलं प्रतीत्य
क्रमेण तद्वन्मुनिराजभाव