Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
अयोनिशोमनस्कारश्चित्तशुद्धिप्रतिष्ठितः
सर्वधर्मेषु चित्तस्य प्रकृतिस्त्वप्रतिष्ठिता  +
पृथिवीधातुवज्ज्ञेयाः स्कन्धायतनधातवः
अब्धातुसदृशा ज्ञेयाः कर्मक्लेशाः शरीरिणाम्  +
अयोनिशोमनस्कारो विज्ञेयो वायुधातुवत्
तदमूलाप्रतिष्ठाना प्रकृतिर्व्योमधातुवत्  +
अनादिमध्यनिधनप्रकृतत्वादसंस्कृतम्
शान्तधर्मशरीरत्वादनाभोगमिति स्मृतम्  +
चित्तप्रकृतिमालीनायोनिशो मनसः कृतिः
अयोनिशोमनस्कारप्रभवे क्लेशकर्मणी  +
कर्मक्लेशाम्बुसंभूताः स्कन्धायतनधातवः
उत्पद्यन्ते निरुध्यन्ते तत्संवर्तविवर्तवत्  +
न हेतुः प्रत्ययो नापि न सामग्री न चोदयः
न व्ययो न स्थितिश्चित्तप्रकृतेर्व्योमधातुवत्  +
चित्तस्य यासौ प्रकृतिः प्रभास्वरा
न जातु सा द्यौरिव याति विक्रियाम्
आगन्तुकै रागमलादिभिस्त्वसा-
वुपैति संक्लेशमभूतकल्पजैः  +
नाभिनिर्वर्तयत्येनं कर्मक्लेशाम्बुसंचयः
न निर्दहत्युदीर्णोऽपि मृत्युव्याधिजरानलः  +
त्रयोऽग्नयो युगान्तेऽग्निर्नारकः प्राकृतः क्रमात्
त्रयस्त्र उपमा तेया मृत्युव्याधिजराग्नयः  +
निर्वृत्तिव्युपरमरुग्जराविमुक्ता
अस्यैव प्रकृतिमनन्यथावगम्य
जन्मादिव्यसनमृतेऽपि तन्निदानं
धीमन्तो जगति कृपोदयाद्भजन्ते  +
मृत्युव्याधिजरादुःखमूलमार्यैरपोद्धृतम्
कर्मक्लेशवशाज्जातिस्तदभावान्न तेषु तत्  +
जन्ममृत्युजराव्याधीन् दर्शयन्ति कृपात्मकाः
जात्यादिवि निवृत्ताश्च यथाभूतस्य दर्शनात्  +
धर्मतां प्रतिविच्येमामविकारां जिनात्मजः
दृश्यते यदविद्यान्धैर्जात्यादिषु तदद्भूतम्  +
प्रत्यात्ममधिगम्यत्वादपरप्रत्ययोदयम्
ज्ञानमेवं त्रिधा बोधात् करुणा मार्गदेशनात्  +
अत एव जगद्वन्धोरुपायकरुणे परे
यदार्यगोचरप्राप्तो दृश्यते बालगोचरे  +
सर्वलोकव्यतीतोऽसौ न च लोकाद्विनिःसृतः
लोके चरति लोकार्थमलिप्तो लौकिकैर्मलैः  +
यथैव नाम्भसा पद्मं लिप्यते जातमम्भसि
तथा लोकेऽपि जातोऽसौ लोकधर्मैर्न लिप्यते  +
नित्योज्ज्वलितबुद्धिश्च कृत्यसंपादनेऽग्निवत्
शान्तध्यानसमापत्तिप्रतिपन्नश्च सर्वदा  +
पूर्वावेधवशात् सर्वविकल्पापगमाच्च सः
न पुनः कुरुते यत्नं परिपाकाय देहिनाम्  +