Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
यो यथा येन वैनेयो मन्यतेऽसौ तथैव तत्
देशन्या रूपकायाभ्यां चर्ययेर्यापथेन वा  +
अनाभोगेन तस्यैवमव्याहतधियः सदा
जगत्याकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते  +
एतां गतिमनुप्राप्तो बोधिसत्त्वस्तथागतैः
समतामेति लोकेषु सत्त्वसंतारणं प्रति  +
अथ चाणोः पृथिव्याश्च गोस्पदस्योदधेश्च यत्
अन्तरं बोधिसत्त्वानां बुद्धस्य च तदन्तरम्  +
अनन्यथात्माक्षयधर्मयोगतो
जगच्छरण्योऽनपरान्तकोटितः
सदाद्वयोऽसावविकल्पकत्वतो
ऽविनाशधर्माप्यकृतस्वभावतः  +
शक्तिर्ज्ञानकृपाभ्यां तु दुःखक्लेशनिबर्हणात्
त्रिभिराद्यैर्गुणैः स्वार्थः परार्थः पश्चिमैस्त्रिभिः  +
न जायते न म्रियते बोध्यते नो न जीर्यते
स नित्यत्वाद्ध्रुवत्वाच्च शिवत्वाच्छाश्वतत्वतः  +
न जायते स नित्यत्वादात्मभावैर्मनोमयैः
अचिन्त्यपरिणामेन ध्रुवत्वान् म्रियते न सः  +
वासनाव्याधिभिः सूक्ष्मैर्बाध्यते न शिवत्वतः
अनास्रवाभिसंस्कारैः शाश्वतत्वान्न जीर्यते  +
तत्र द्वाभ्यामथ द्वाभ्यां द्वाभ्यां द्वाभ्यां यथाक्रमम्
पदाभ्यां नित्यताद्यर्थो विज्ञेयोऽसंस्कृते पदे  +
स धर्मकायः स तथागतो यत-
स्तदार्यसत्यं परमार्थनिर्वृतिः
अतो न बुद्धत्वमृतेऽर्करश्मिवद्
गुणाविनिर्भागतयास्ति निर्वृतिः  +
धर्मकायादिपर्याया वेदितव्याः समासतः
चत्वारोऽनास्रवे धातौ चतुरर्थप्रभेदतः  +
बुद्धधर्माविनिर्भागस्तद्गोत्रस्य तथागमः
अमृषामोषधर्मित्वमादिप्रकृतिशान्तता  +
सर्वाकाराभिसंबोधिः सवासनमल्लोद्धृतिः
बुद्धत्वमथ निर्वाणमद्वयं परमार्थतः  +
सर्वाकारैरसंख्येयैरचिन्त्यैरमलैर्गुणैः
अभिन्नलक्षणो मोक्षो यो मोक्षः स तथागत इति  +
अन्योन्यकुशला यद्वद्भवेयुश्चित्रलेखकाः
यो यदङ्गं प्रजानीयात्तदन्यो नावधारयेत्  +
अथे तेभ्यः प्रभू राजा प्रयच्छेद्दुष्यमाज्ञया
सर्वैरेवात्र युष्माभिः कार्या प्रतिकृतिर्मम  +
यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतो
ऽसक्यस्तर्कयितुं निरुक्त्यपगतः प्रत्यात्मवेद्यः शिवः
तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे
सर्वारम्वण रागदोषतिमिरव्याघातकर्त्रे नमः  +
ततस्तस्य प्रतिश्रुत्य युञ्जेरंश्चित्रकर्मणि
तत्रैको व्यभियुक्तानामन्यदेशगतो भवेत्  +
देशान्तरगते तस्मिन् प्रतिमा तद्वियोगतः
न सा सर्वाङ्गसंपूर्णा भवेदित्युपमा कृता  +