Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
समाधिसंस्पर्शसुखानुभूतिषु
स्वभावगाम्भीर्यनयावबोधने
सुसूक्ष्मचिन्तापरमार्थगव्हरं
तथागतव्योम निमित्तवर्जितम्  +
कर्म ज्ञानद्वयस्यतद्वेदितव्यं समासतः
पूरणं मुक्तिकायस्य धर्मकायस्य शोधनम्  +
विमुक्तिधर्मकायौ च वेदितव्यौ द्विरेकधा
अनास्रवत्वाद्व्यापित्वादसंस्कृतपदत्वतः  +
अनास्रवत्वं क्लेशानां सवासननि रोधतः
असङ्गाप्रतिघातत्वाज्ज्ञानस्य व्यापिता मता  +
असंस्कृतत्वमत्यन्तमविनाशस्वभावतः
अविनाशित्वमुद्देशस्तन्निर्देशो ध्रुवादिभिः  +
नाशश्चतुर्विधो ज्ञेयो ध्रुवत्वादिविपर्ययात्
पूर्तिर्विकृतिरुच्छित्तिरचिन्त्यनमनच्युतिः  +
तदभावाद्ध्रुवं ज्ञेयं शिवं शाश्वतमच्युतम्
पदं तदमलज्ञानं शुक्लधर्मास्पदत्वतः  +
यथानिमित्तमाकाशं निमित्तं रूपदर्शने
शब्दगन्धरस्पृश्यधर्माणां च श्रवादिषु  +
इन्द्रियार्थेषु धीराणामनास्रवगुणोदये
हेतुः कायद्वयं तद्वदनावरणयोगतः  +
अचिन्त्यं नित्यं च ध्रुवमथ शिवं शाश्वतमथ
प्रशान्तं च व्यापि व्यपगतविकल्पं गगनवत्
असक्तं सर्वत्रापरतिघपरुषस्पर्शविगतं
न दृश्यं न ग्राह्यं शुभमपि च बुद्धत्वममलम्  +
बुद्धत्वं प्रकृतिप्रभास्वरमिति प्रोक्तं यदागन्तुक-
क्लेशज्ञेयघनाभ्रजालपटलच्छन्नं रविव्योमवत्
सर्वैर्बुद्धगुणैरुपेतममलैर्नित्यं ध्रुवं शाश्वतं
धर्माणां तदकल्पनप्रविचयज्ञानाश्रयादाप्यते  +
विमुक्तिधर्मकायाभ्यां स्वपरार्थो निदर्शितः
स्वपरार्थाश्रये तस्मिन् योगोऽचिन्त्यादिभिर्गुणैः  +
अचिन्त्यमनुगन्तव्यं त्रिज्ञानाविषयत्वतः
सर्वज्ञज्ञानविषयं बुद्धत्वं ज्ञानदेहिभिः  +
श्रुतस्याविषयः सौक्ष्म्याच्चिन्तायाः परमार्थतः
लौक्यादिभावनायाश्च धर्मतागव्हरत्वतः  +
दृष्टपूर्वं न तद्यस्माद्वालैर्जात्यन्धकायवत्
आर्यैश्च सूतिकामध्यस्थित बालार्कबिम्बवत्  +
उत्पादविगमान्नित्यं निरोधविगमाद्ध्रुवम्
शिवमेतद्द्वयाभावाच्छाश्वतं धर्मतास्थितेः  +
शान्तं निरोधसत्यत्वाद्व्यापि सर्वावबोधतः
अकल्पमप्रतिष्ठानादसक्तं क्लेशहानितः  +
सर्वत्राप्रतिघं सर्वज्ञेयावरणशुद्धितः
परुषस्पर्शनिर्मुक्तं मृदुकर्मण्यभावतः  +
अदृश्यं तदरूपित्वादग्राह्यमनिमित्ततः
शुभं प्रकृतिशुद्धत्वादमलं मलहानितः  +
अनादिमध्यान्तमभिन्नमद्वयं
त्रिधा विमुक्तं विमलाविकल्पकम्
समाहिता योगिनस्तत्प्रयत्नाः
पश्यन्ति यं धर्मधातुस्वभावम्  +