Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
मुनिवृषमधुसारहेमरत्न-
प्रवरनिधानमहाफलद्रुमाभम्
सुगतविमलरत्नविग्रहाग्र-
क्षितिपतिकाञ्चनबिम्बवज्जिनत्वम्  +
स्वार्थः परार्थः परमार्थकाय-
स्तदाश्रिता संवृतिकायता च
फलं विसंयोगविपाकभावा-
देतच्चतुः षष्टिगुणप्रभेदम्  +
नित्यं वनान्तेषु यथा मृगेन्द्रो
निर्भीरनुत्तस्तगतिर्मृगेभ्यः
मुनीन्द्रसिंहोऽपि तथा गणेषु
स्वस्थो निरास्थः स्थिरविक्रमस्थः  +
स्खलितं रवितं नास्ति शास्तुर्न मुषिता स्मृतिः
न चासमाहितं चित्तं नापि नानत्वसंज्ञिता  +
नोपेक्षाप्रतिसंख्याय हानिर्न च्छन्दवीर्यतः
स्मृतिप्रज्ञाविमुक्तिभ्यो विमुक्तिज्ञानदर्शनात्  +
ज्ञानपूर्वंगमं कर्म त्र्यध्वज्ञानमनावृतम्
इत्येतेऽष्टादशान्ये च गुरोरावेणिका गुणाः  +
नास्ति प्रस्खलितं रवो मुषितता चित्ते न संभेदतः
संज्ञा न स्वरसाध्युपेक्षणमृषेर्हानिर्न च च्छन्दतः
वीर्याच्च स्मृतितो विशुद्धविमलप्रज्ञाविमुक्तेः सदा
मुक्ति ज्ञाननिर्दशनाच्च निखिलज्ञेयार्थसंदर्शनात्  +
सर्वज्ञानुपुरोजवानुपरिवर्त्यर्थेषु कर्मत्रयं
त्रिष्वध्वस्वपराहत सुविपुलज्ञानप्रवृत्तिर्ध्रुवम्
इत्येषा जिनता महाकरुणया युक्तावबुद्धा जिनै-
र्यद्बोधाज्जगति प्रवृत्तमभयदं सद्धर्मचक्रं महत्  +
या क्षित्यादिषु धर्मता न नभसः सा धर्मता विद्यते
ये चानावरणादिलक्षणगुणा व्योम्नो न ते रूपिषु
क्षित्यम्बुज्वलनानिलाम्बरसमा लोकेषु साधारणा
बुद्धावेणिकता न चाश्वपि पुनर्लोकेषु साधारणा  +
सुप्रतिष्ठितचक्राङ्कव्यायतोत्सङ्गपादता
दीर्घाङ्गुलिकता जालपाणिपादावनद्ध  +
त्वङ् मृदुश्रीतरुणता सप्तोत्सदशरीरता
एणेयजङ्घता नागकोशवद्वस्तिगुह्यत  +
सिंहपूर्वार्धकायत्वं निरन्तरचितांशता
संवृत्तस्कन्धता वृत्तश्लक्ष्णानुन्नामबाहुता  +
आत्मसंपत्त्यधिष्ठानं शरीरं पारमार्थिकम्
परसंपत्त्यधिष्ठानमृषेः सांकेतिकं वपुः  +
प्रलम्बबाहुता शुद्धप्रभामण्डलगात्रता
कम्बुग्रीवत्वममलं मृगेन्द्रहनुता समा  +
चत्वारिंशद्दशनता स्वच्छाविरलदन्तता
विशुद्धसमदन्तत्वं शुक्लप्रवरदंष्ट्रता  +
प्रभूतजिव्हतानन्ताचिन्त्यरसरसाग्रता
कलविङ्करुतं ब्रह्मस्वरता च स्वयंभुवः  +
नीलोत्पलश्रीवृषपक्ष्मनेत्र-
सितामलोर्णोदितचारुवक्त्रः
उष्णीषशीर्षव्यवदातसूक्ष्म-
सुवर्णवर्णच्छविरग्रसत्त्वः  +
एकैकविश्लिष्टमृदूर्ध्वदेह-
प्रदक्षिणावर्तसुसूक्ष्मरोमा
महेन्द्रनीलामलरत्नकेशो
न्यग्रोधपूर्णद्रुममण्डलाभः  +
नारायणस्थामदृढात्मभावः
समन्तभद्रोऽप्रतिमो महर्षिः
द्वात्रिंशदेतान्यमितद्युतीनि
नरेन्द्रचिन्हानि वदन्ति शास्तुः  +
व्यभ्रे यथा नभसि चन्द्रमसो विभूतिं
पश्यन्ति नीलशरदम्बुमहाह्रदे च
संबुद्धमण्डलतलेषु विभोर्विभूतिं
तद्विज्जिनात्मजगणा व्यवलोकयन्ति  +