This is a property of type Text.
Showing 20 pages using this property.
उदित इह समन्ताल् लोकम् आभास्य यद्वत् प्रततदशशतांशुः सप्तसप्तिः क्रमेण
प्रतपति वरमध्यन्यूनशैलेषु तद्वत् प्रतपति जिनसूर्यः सत्त्वराशौ क्रमेण
+सर्वक्षेत्रनभस्तलस्फरणता भानोर् न संविद्यते नाप्य् अज्ञानतमो ऽन्धकारगहनज्ञेयार्थसंदर्शनम्
नानावर्णविकीर्णरश्मिविसरैर् एकैकरोमोद्भवैर् भासन्ते करुणात्मका जगति तु ज्ञेयार्थसंदर्शकाः
+बुद्धानां नगरप्रवेशसमये चक्षुर्विहीना जनाः पश्यन्त्य् अर्थम् अनर्थजालविगमं विन्दन्ति तद्दर्शनात्
मोहान्धाश् च भवार्णवान्तरगता दृष्ट्यन्धकारावृता बुद्धार्कप्रभयावभासितधियः पश्यन्त्य् अदृष्टं पदम्
+युगपद् गोचरस्थानां सर्वाभिप्रायपूरणम्
कुरुते निर्विकल्पो ऽपि पृथक् चिन्तामणिर् यथा
+बुद्धचिन्तामणिं तद्वत् समेत्य पृथगाशयाः
शृण्वन्ति धर्मतां चित्रां न कल्पयति तांश् च सः
+यथाविकल्पं मणिरत्नम् ईप्सितं धनं परेभ्यो विसृजत्य् अयत्नतः
तथा मुनिर् यत्नम् ऋते यथार्हतः परार्थम् आतिष्ठति नित्यम् आ भवात्
+तदावृतिरपर्यन्तक्लेशोपक्लेशवासनाः
करुणा तत्समुद्घातप्रत्ययः सार्वकालिकः
+इह शुभमणिप्राप्तिर् यद्वज् जगत्य् अतिदुर्लभा जलनिधिगतं पातालस्थं यतः स्पृहयन्ति तम्
अन् सुलभम् इति ज्ञेयं तद्वज् जगत्य् अतिदुर्भगे मनसि विविधक्लेशग्रस् ते तथागतदर्शनम्
+प्रतिश्रुत्कारुतं यद्वत् परविज्ञप्तिसंभवम्
निर्विकल्पम् अनाभोगं नाध्यात्मं न बहिः स्थितम्
+तथागतरुतं तद्वत् परविज्ञप्तिसंभवम्
निर्विकल्पम् अनाभोगं नाध्यात्मं न बहिः स्थितम्
+निष्किंचने निराभासे निरालम्बे निराश्रये
चक्षुष्पथव्यतिक्रान्तेऽप्यरूपिण्यनिदर्शने
+यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा
बुद्धेष्वपि तथा सर्व दृश्यते न च तत्तथा
+सर्वे महीरुहा यद्वदविकल्पां वसुंधराम्
निश्रित्य वृद्धिं वैरूढिं वैपुल्यमुपयान्ति च
+संबुद्धपृथिवीमेवमविकल्पामशेषतः
जगत्कुशलमूलानि वृद्धिमाश्रित्य यान्ति हि
+न प्रयत्नमृते केश्चिद्दृष्टः कुर्वन् क्रियामतः
विनेयसंशयच्छित्त्यै नवधोक्तं निदर्शनम्
+सूत्रस्य तस्य नाम्नैव दिपितं तत्प्रयोजनम्
यत्रैते नव दृष्टान्ता विस्तरेण प्रकाशिताः
+एतच्छ्रतमयोदारज्ञानालोकाद्यलंकृताः
धीमन्तोऽवतरन्त्याशु सकलं बुद्धगोचरम्
+स्थानानि वेदितव्यानि षडेतानि यथाक्रमम्
महोदधिरविव्योमनिधानाम्बुदवायुवत्
+इत्यर्थ शक्रवैडूर्यप्रतिबिम्बाद्युदाहृतिः
नवधोदाहृता तस्मिन्तत्पिण्डार्थोऽवधार्यते
+दर्शनादेशना व्याप्तिर्विकृतिर्ज्ञाननिःसृतिः
मनोवाक्कायगुह्यानि प्राप्तिश्च करुणात्मनाम्