Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
भ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम्
दुःख जनयति द्वेषो जायमानस्तथा हृदि  +
शाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः
मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम्  +
प्रतिकूलं यथामेध्यमेवं कामा विरागिणाम्
कामसेवानिमित्तत्वात् पर्युत्थानान्यमेध्यवत्  +
वसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम्
स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः  +
यथा बीजत्वगुच्छित्तिरङ्कुरादिक्रमोदयात्
तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात्  +
यथावद्यावदध्यात्मज्ञानदर्शनशुद्धितः
धीमतामविवर्त्यानामनुत्तरगुणैर्गणः  +
हतसत्कायसाराणामार्यमार्गानुषङ्गतः
भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम्  +
गर्भकोशमलप्रख्याः सप्तभूमिगता मला
विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत्  +
मृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः
वज्रोपमसमाधानज्ञानवध्या महात्मनाम्  +
एवं पद्मादिभिस्तुल्या नव रागादयो मलाः
धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात्  +
स्वभावो धर्मकायोऽस्य तथता गोत्रमित्यपि
त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः  +
धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः
तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना  +
लोकोत्तरत्वाल्लोकेऽस्य दृष्टान्तानुपलब्धितः
धातोस्तथागतेनैव सादृश्यमुपपपादितम्  +
मध्वेकरसवत् सूक्ष्मगम्भीरनयदेशना
नानाण्डसारवज्ज्ञेया विचित्रनयदेशना  +
प्रकृतेरविकारित्वात् कल्याणत्वाद्विशुद्धितः
हेममण्डलकौपम्यं तथतायामुदाहृतम्  +
गोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत्
अनादिप्रकृतिस्थं च समुदानीतमुत्तरम्  +
यथावत्तज्जगच्छन्तधर्मतावगमात् स च
प्रकृतेः परिशुद्धत्वात् क्लेशस्यादिक्षयेक्षणात्  +
बुद्धकायत्रयावाप्तिरस्माद्गोत्रद्वयान्मता
प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ  +
रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः
अकृत्रिमत्वात् प्रकृतेर्गुणरत्नाश्रयत्वतः  +
महाधर्माधिराजत्वात् साम्भोगश्चक्रवर्तिवत्
प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत्  +