Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 6 pages using this property.
T
यः शीलं तनुवाङ्मनोभिरमलं रक्षेदनाभोगव-
द्धीमान् बोधिमनुत्तरामभिलषन् कल्पाननेकानपि
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माच्छीलमयाच्छुभाद्बहुतरं पुण्यं समासादयेत्  +
ध्यायेद्ध्यानमपीह यस्त्रिभुवनक्लेशाग्निनिर्वापकं
दिव्यब्रह्म विहारपारमिगतः संबोध्युपायाच्युतः
यश्चान्यः श्रृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्ध्यानमयाच्छुभाद्बहुतरं पुण्यं समासादयेत्  +
दानं भोगानावहत्येवः यस्मा-
च्छीलं स्वर्गं भावना क्लेशहानिम्
प्रज्ञा क्लेशज्ञेयसर्वप्रहाणं
सातः श्रेष्ठा हेतुरस्याः श्रवोऽयम्  +
आश्रये तत्परावृत्तौ तद्गुणेष्वर्थसाधने
चतुर्विधे जिनज्ञानविषयेऽस्मिन् यथोदिते  +
धिमानस्तित्वशक्तत्वगुणवत्त्वा धिमुक्तितः
तथागतपदप्राप्तिभव्यतामाशु गच्छति  +
अस्त्यसौ विषयोऽचिन्त्यः शक्यः प्राप्तुं स मादृशैः
प्राप्त एवंगुणश्चासाविति श्रद्धाधिमुक्तितः  +