Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
अमेयगङ्गासिकतातिवृत्तै-
र्गुणैरचिन्त्यैरसमैरुपेतः
सवासनोन्मूलितसर्वदोष-
स्तथागतानाममलः स धातुः  +
बुद्धत्वमविनिर्भागशुक्लधर्मप्रभावितम्
आदित्याकाशवज्ज्ञानप्रहाणद्वयलक्षणम्  +
विचित्रसद्धर्ममयूखविग्रहै-
र्जगद्विमोक्षार्थसमाहृतोद्यमः
क्रियासु चिन्तामणिराजरत्नव-
द्विचित्रभावो न च तत्स्वभववान्  +
लोकेषु यच्छान्तिपथावतार-
प्रपाचनाव्याकरणे निदानम्
बिम्बं तदप्यत्र सदावरुद्ध-
माकाशधाताविव रूपधातुः  +
यत्तद्बुद्धत्वमित्युक्तं सर्वज्ञत्वं स्वयंभुवाम्
निर्वृतिः परमाचिन्त्यप्राप्तिः प्रत्यात्मवेदिता  +
तत्प्रभेदस्त्रिभिः कायैर्वृत्तिः स्वाभाविकादिभिः
गाम्भीर्यैदार्यमाहात्म्यगुणधर्मप्रभावितैः  +
तत्र स्वभाविकः कायो बुद्धानां पञ्चलक्षणः
पञ्चाकारगुणोपेतो वेदितव्यः समासतः  +
असंस्कृतमसंभिन्नमन्तद्वयविवर्जितम्
क्लेशज्ञेयसमापत्तित्रयावरणनिःसृतम्  +
वैमल्यादविकल्पत्वाद्योगिनां गोचरत्वतः
प्रभास्वरं विशुद्धं च धर्मधातोः स्वभावतः  +
अप्रमेयैरसंख्येयैरचिन्त्यैरसमैर्गुणैः
विशुद्धिपारमीप्राप्तैर्युक्तं स्वाभाविकं वपुः  +
उदारत्वादगण्यत्वात् तर्कस्यागोचरत्वतः
कैवल्याद्वासनोच्छित्तेरप्रमेयादयः क्रमात्  +
विचित्रधर्मसंभोगरूपधर्मावभासतः
करुणाशुद्धिनिष्यन्दसत्त्वार्थास्रंसनत्वतः  +
गङ्गातीररजोऽतीतैर्बुद्धधर्मैः प्रभास्वरैः
सर्वैरकृतकैर्युक्तमविनिर्भागवृतिभिः  +
निर्विकल्पं निराभोगं यथाभिप्रायपूरितः
चिन्तामणिप्रभावर्द्धेः सांभोगस्य व्यवस्थितिः  +
देशने दर्शने कृत्यास्रंसनेऽनभिसंस्कृतौ
अतत्स्वभावाख्याने च चित्रतोक्ता च पञ्चधा  +
रङ्गप्रत्ययवैचित्र्यादतद्भावो यथा मणेः
सत्त्वप्रत्ययवैचित्र्यादतद्भावस्तथा विभोः  +
महाकरुणया कृत्स्नं लोकमालोक्य लोकवित्
धर्मकायादविरलं निर्माणैश्चित्ररूपिभिः  +
जातकान्युपपत्तिं च तुषितेषु च्युतिं ततः
गर्भा[व]क्रमणं जन्म शिल्पस्थानानि कौशलम्  +
अन्तःपुररतिक्रीडां नैष्क्रम्यं दुःखचारिकाम्
बोधिमण्डोपसंक्रान्तिं मारसैन्यप्रमर्दनम्  +
संबोधिं धर्मचक्रं च निर्वाणाधिगमक्रियाम्
क्षेत्रेष्वपरिशुद्धेषु दर्शयत्या भवस्थिते  +