Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
शीतं स्वादु प्रसन्नं मृदु लघु च पयस् तत् पयोदाद् विमुक्तं
क्षारादिस्थानयोगाद् अतिबहुरसताम् एति यद्वत् पृथिव्याम्
आर्याष्टाङ्गाम्बुवर्षं सुविपुलकरुणामेघगर्भाद् विमुक्तं
सन्तानस्थानभेदाद् बहुविधरसताम् एति तद्वत् प्रजासु  +
यानाग्रे ऽभिप्रसन्नानां मध्यानां प्रतिघातिनाम्
मनुष्यचातकप्रेतसदृशा राशयस् त्रयः  +
ग्रीष्मान्ते ऽम्बुधरेष्व् असत्सु मनुजा व्योम्न्य् अप्रचाराः खगा वर्षास्व् अप्य् अतिवर्षणप्रपतनात् प्रेताः क्षितौ दुःखिताः
अप्रादुर्भावनोदये ऽपि करुणामेघाभ्रधर्माम्भसो धर्माकाङ्क्षिणि धर्मताप्रतिहते लोके च सैवोपमा  +
स्थूलैर् बिन्दुनिपातनैर् अशनिभिर् वज्राग्निसंपातनैः सूक्ष्मप्राणकशैलदेशगमिकान् नापेक्षते तोयदः
सूक्ष्मौदारिकयुक्त्युपायविधिभिः प्रज्ञाकृपाम्भोधरस् तद्वत् क्लेशगतान् दृष्ट्यनुशयान् नापेक्षते सर्वथा  +
निर्याणे तदुपस्तम्भे तत्फले तत्परिग्रहे
तदावृत्तौ तदुच्छित्तिप्रत्यये चाविकल्पतः  +
संसारो ऽनवराग्रजातिमरणस् तत्संसृतौ पञ्चधा मार्गः पञ्चविधे च वर्त्मनि सुखं नोच्चारसौगन्ध्यवत्
तद् दुःखं ध्रुवम् अग्निशस्त्रशिशिरक्षारादिसंस्पर्शजं तच्छान्त्यै च सृजन् कृपाजलधरः सद्धर्मवर्षं महत्  +
देवेषु च्युतिदुःखम् इत्य् अवगमात् पर्येष्टिदुःखं नृषु प्राज्ञा नाभिलषन्ति देवमनुजेष्व् ऐश्वर्यम् अप्य् उत्तमम्
प्रज्ञायाश् च तथागतप्रवचनश्रद्धानुमान्याद् इदं दुःखं हेतुर् अयं निरोध इति च ज्ञानेन संप्रेक्षणात्  +
व्याधिर् ज्ञेयो व्याधिहेतुः प्रहेयः स्वास्थ्यं प्राप्यं भेषजं सेव्यम् एवम्
दुःखं हेतुस् तन्निरोधो ऽथ मार्गो ज्ञेयं हेयः स्पर्शितव्यो निषेव्यः  +
सर्वत्र देवभवने ब्राह्म्याद् अविचलन् पदात्
प्रतिभासं यथा ब्रह्मा दर्शयत्य् अप्रयत्नतः  +
तद्वन् मुनिर् अनाभोगान् निर्माणैः सर्वधातुषु
धर्मकायाद् अविचलन् भव्यानाम् एति दर्शनम्  +
यद्वद् ब्रह्मा विमानान् न चलति सततं कामधातुप्रविष्टं देवाः पश्यन्ति चैनं विषयरतिहरं दर्षनं तच् च तेषाम्
तद्वद् सद्धर्मकायान् न चलति सुगतः सर्वलोकेषु चैनं भव्याः पश्यन्ति शश्वत्सकलमलहरं दर्शनं तच् च तेषाम्  +
स्वस्यैव पूर्वप्रणिधानयोगान् मरुद्गणानां च शुभानुभावात्
ब्रह्मा यथा भासम् उपैत्य् अयत्नान् निर्माणकायेन तथा स्वयंभूः  +
च्युतिं गर्भाक्रान्तिं जननपितृवेश्मप्रविशनं रतिक्रीडारण्यप्रविचरणमारप्रमथनम्
महाबोधिप्राप्तिं प्रशमपुरमार्गप्रणयनं निदर्श्याधन्यानां नयनपथम् अभ्येति न मुनिः  +
सूर्ये यथा तपति पद्मगणप्रबुद्धिर् एकत्र कालसमये कुमुदप्रसुप्तिः
बुद्धिप्रसुप्तिगुणदोषविधावकल्पः सूर्यो ऽम्बुजेष्व् अथ च तद्वद् इहार्यसूर्यः  +
निर्विकल्पो यथादित्यः कमलानि स्वरष्मिभिः
बोधयत्य् एकमुक्ताभिः पाचयत्य् अपराण्य् अपि  +
भूमयो दश निर्याणं तद्धेतुः संभृतिद्वयम्
तत्फलं परमा बोधिर्बोधेः सत्त्वः परिग्रहः  +
सद्धर्मकिरणैर् एवं तथागतदिवाकरः
विनेयजनपद्मेषु निर्विकल्पः प्रवर्तते  +
धर्मरूपशरीराभ्यां बोधिमण्डाम्बरोदितः
जगत् स्फरति सर्वज्ञदिनकृज् ज्ञानरश्मिभिः  +
यतः शुचिनि सर्वत्र विनेयसलिलाशये
अमेयसुगतादित्यप्रतिबिम्बोदयः सकृत्  +
सदा सर्वत्र विसृते धर्मधातुनभस्तले
बुद्धसूर्ये विनेयाद्रितन्निपातो यथार्हतः  +