This is a property of type Text.
Showing 20 pages using this property.
तच्चित्तप्रत्युपस्थानादविवर्त्यो जिनात्मजः
पुण्यपारमितापूरिपरिशुद्धिं निगच्छति
+पुण्यं पारमिताः पञ्च त्रेधा तदविकल्पनात्
तत्पूरिः परिशुद्धिस्तु तद् विपक्षप्रहाणतः
+दानं दानमयं पुण्यं शीलं शीलमयं स्मृतम्
द्वे भावनामयं क्षान्तिध्याने वीर्यं तु सर्वगम्
+त्रिमण्डलविकल्पो यस्तज्ज्ञेयावरणं मतम्
मात्सर्यादिविपक्षो यस्तत् क्लेशावरणं मतम्
+एतत्प्रहाणहेतुश्च नान्यः प्रज्ञामृते ततः
श्रेष्ठा प्रज्ञा श्रुतं चास्य मूलं तस्माच्छ्रुतं परम्
+इतीदमाप्तागमयुक्तिसंश्रया-
दुदाहृतं केवलमात्मशुद्धये
धियाधिमुक्त्या कुशलोपसंपदा
समन्विता ये तदनुग्रहाय च
+प्रदीपविद्युन्मणिचन्द्रभास्करान्
प्रतीत्य पश्यन्ति यथा सचक्षुषः
महार्थधर्मप्रतिभाप्रभाकरं
मुनिं प्रतीत्येदमुदाहृतं तथा
+यदर्थवद्धर्मपदोपसंहितं
त्रिधातुसंक्लेशनि बर्हण वचः
भवेच्च यच्छान्त्यनुशंसदर्शकं
तदुक्तमार्षं विपरीतमन्यथा
+यत्स्यादविक्षिप्तमनोभिरुक्तं
शास्तारमेकं जिनमुद्दिशद्भिः
मोक्षा प्तिसंभारपथानुकूलं
मूर्ध्ना तदप्यार्षमिव प्रतीच्छेत्
+इह जिनविषयेऽधिमुक्तबुद्धि-
र्गुणगणभाजनतामुपैति धीमान्
अभिभवति स सर्वसत्त्वपुण्य-
प्रसवमचिन्त्यगुणाभिलाषयोगात्
+यस्मान्नेह जिनात् सुपण्डिततमो लोकेऽस्ति कश्चित्क्वचित्
सर्वज्ञः सकलं स वेद विधिवत्तत्त्वं परं नापरः
तस्माद्यत्स्वयमेव नीतमृषिणा सूत्रं विचाल्यं न तत्
सद्धर्मप्रतिबाधनं हि तदपि स्यान्नीति भेदान्मुनेः
+आर्यांश्चापवदन्ति तन्निगदितं धर्मं च गर्हन्ति यत्
सर्वः सोऽभिनिवेशदर्शनकृतः क्लेशो विमूढात्मनाम्
तस्मान्नाभिनिवेशदृष्टिमलिने तस्मिन्निवेश्या मतिः
शुद्धं वस्त्रमुपैति रङ्गविकृतिं न स्नेहपङ्काङ्कितम्
+धीमान्द्यादधिमुक्तिशुक्लविरहान् मिथ्याभिमानाश्रयात्
सद्धर्मव्यसनावृतात्मकतया नेयार्थतत्त्वग्रहात्
लोभग्रेधतया च दर्शनवशाद्धर्मद्विपां सेवना-
दाराद्धर्मभृतां च हीनरुचयो धर्मान् क्षिपन्त्यर्हताम्
+नाग्नेर्नोग्रविषादहेर्न वधकान्नैवाशनिभ्यस्तथा
भेतव्यं विदुषामतीव तु यथा गम्भीरधर्मक्षतेः
कुर्युर्जीवितविप्रयोगमनलव्यालारिवज्राग्नय-
स्तद्धेतोर्न पुनर्व्रजेदतिभयामावीचिकानां गतिम्
+योऽभीक्ष्णं प्रतिसेव्य पापसुहृदः स्याद्वुद्धदुष्टाशयो
मातापित्ररिहद्वधाचरणकृत् संघाग्रभेत्ता नरः
स्यात्तस्यापि ततो विमुक्तिरचिरं धर्मार्थनिध्यानतो
धर्मे यस्य तु मानसं प्रतिहतं तस्मै विमुक्तिः कुतः
+रत्नानि व्यवदानधातुममलां बोधिं गुणान् कर्म च
व्याकृत्यार्थपदानि सप्त विधिवद्यत् पुण्यमाप्तं मया
तेनेयं जनतामितायुषमृषिं पश्येदनन्तद्युतिं
दृष्ट्वा चामलधर्मचक्षुरुदयाद्बोधिं परामाप्नुयात्
+यतश्च यन्निमित्तं च यथा च यदुदाहृतम्
यन्निष्यन्दफलं श्लोकैश्चतुर्भिः परिदीपितम्
+आत्मसंरक्षणोपायो द्वाभ्यामेकेन च क्षतेः
हेतुः फलमथ द्वाभ्यां श्लोकाभ्यां परिदीपितम्
+संसारमण्डलक्षान्तिर्बोधिप्राप्तिः समासतः
द्विधा धर्मार्थवादस्य फलमन्तेन दर्शितम्
+यो दद्यान्मणिसंस्कृतानि कनकक्षेत्राणि बोध्यर्थिको
बुद्धक्षेत्ररजःसमान्यहरहो धर्मेश्वरेभ्यः सदा
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्दानमयाच्छुंभाद्बहुतरं पुण्यं समासादयेत्