Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
अम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययै-
र्यद्वत् तालफलाम्रकोशविवरादुत्पद्यते पादपः
सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्कुर-
स्तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः  +
बिम्बं यथा रत्नमयं जिनस्य
दुर्गन्धपूत्यम्बरसंनिरुद्धम्
दृष्ट्ववोज्झितं वर्त्मनि देवतास्य
मुक्त्यै वदेदध्वगमेतमर्थम्  +
नानाविधक्लेशमलोपगूढ-
मसङ्गचक्षुः सुगतात्मभावम्
विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं
प्रत्यभ्युपायं विदधाति तद्वत्  +
अतर्क्यत्वादलाप्यत्वादार्यज्ञानादचिन्यता
शिवत्वादद्वयाकल्पौ शुद्ध्यादि त्रयनर्कवत्  +
यद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं
वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत्
तद्वत् क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्ज्ञितं
तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः  +
नारी यथा काचिदनाथभूता
वसेदनाथावसथे विरूपा
गर्भेण राजश्रियमुद्वहन्ती
न सावबुध्येत नृपं स्वकुक्षौ  +
अनाथशालेव भवोपपत्ति-
रन्तर्वतीस्त्रीवदशुद्धसत्त्वाः
तद्गर्भवत्तेष्वमलः स धातु-
र्भवन्ति यस्मिन्सति ते सनाथाः  +
यद्वत् स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता
विन्देद्दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे
तद्वत् क्लेशवशादशान्तमनसो दुःखालयस्था जनाः
सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि  +
हेम्नो यथान्तःक्वथितस्य पूर्णं
बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम्
अन्तर्विशुद्ध्यै कनकस्य तज्ज्ञः
संचोदयेदावरणं बहिर्धा  +
प्रभास्वरत्वं प्रकृतेर्मलाना-
मागन्तुकत्वं च सदावलोक्य
रत्नाकराभं जगदग्रबोधि-
र्विशोधयत्यावरणेभ्य एवम्  +
यद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं
स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम्
तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्ववि-
द्धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम्  +
अम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ
फलत्वक्पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि  +
बुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत्
रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत्  +
सत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु
चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम्  +
ये सम्यक् प्रतिविध्य सर्वजगतो नैरात्म्यकोटिं शिवां
तच्चित्तप्रकृतिप्रभास्वरतया क्लेशास्वभावेक्षणात्
सर्वत्रानुगतामनावृतधियः पश्यन्ति संबुद्धतां
तेभ्यः सत्त्वविशुद्ध्यनन्तविषयज्ञानेक्षणेभ्यो नमः  +
रागद्विड् मोहतत्तीव्रपर्यवस्थान वासनाः
दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः  +
पद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः
अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः  +
नव रागादयः क्लेशाः संक्षेपेण यथाक्रमम्
नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः  +
बालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात्
मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता  +
तत्पद्मं मृदि संभूतं पुरा भूत्वा मनोरमम्
अरम्यमभवत् पश्चाद्यथा रागरतिस्तथा  +