Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
अनित्यदुःखनैरात्म्यशान्तिशब्दैरुपायवित्
उद्वेज्य त्रिभवात् सत्त्वान् प्रतारयति निर्वृत्तौ  +
शान्तिमार्गावतीर्णाश्च प्राप्यनिर्वाणसंज्ञिनः
सद्धर्मपुण्डरीकादिधर्मतत्त्वप्रकाशनैः  +
पूर्वग्रहान्निवर्त्यैतान् प्रज्ञोपायपरिग्रहात्
परिपाच्योत्तमे याने व्याकरोत्यग्रबोधये  +
स्वभावापरिनिष्पत्तिव्यापित्वागन्तुकत्वतः
क्लेशज्ञेयावृतिस्तस्मान्मेघवत् समुदाहृता  +
सौक्ष्म्यात् प्रभावसंपत्तेर्बालसार्थातिवाहनात्
गाम्भीर्यौ दार्यमाहत्म्यमेषु ज्ञेयं यथाक्रमम्  +
प्रथमो धर्मकायोऽत्र रूपकायौ तु पश्चिमौ
व्योम्नि रूपगतस्येव प्रथमेऽन्त्यस्य वर्तनम्  +
हेत्वानन्त्यात् सत्त्वधात्वक्षयत्वात्
कारुण्यद्धिर्ज्ञानसंपत्तियोगात्
धर्मैश्वर्यान्मृत्युमारावभङ्गान्
नैःस्वा भाव्याच्छाश्वतो लोकनाथः  +
कायजीवितभोगानां त्यागैः सद्धर्मसंग्रहात्
सर्वसत्त्वहितायादिप्रतिज्ञोत्तरणत्वतः  +
बुद्धत्वे सुविशुद्धायाः करुणायाः प्रवृत्तितः
ऋद्धिपादप्रकाशाच्च तैरवस्थानशक्तितः  +
ज्ञानेन भवनिर्वाणद्वयग्रहविमुक्तितः
सदाचिन्त्यसमाधानसुखसंपत्तियोगतः  +
लोके विचरतो लोकधर्मैरनुपलेपतः
शमामृतपदप्राप्तौ मृत्युमाराप्रचारतः  +
असंस्कृतस्वभावस्य मुनेरादिप्रशान्तितः
नित्यमशरणानां च शरणाभ्युपपत्तितः  +
सप्तभिः कारणैराद्यैर्नित्यता रूपकायतः
पश्चिमैश्च त्रिभिः शास्तुर्नित्यता धर्मकायतः  +
अवाक्यवत्त्वात् परमार्थसंग्रहा-
दतर्कभूमेरुपमनिवृत्तितः
निरुत्तरत्वाद्भवशान्त्यनुद्ग्रहा-
दचिन्त्य आर्यैरपि बुद्धगोचरः  +
द्वयावरणविश्लेषहेतुर्ज्ञानद्वयं पुनः
निर्विकल्प च तत्पृष्ठलब्धं तज्ज्ञानमिष्यते  +
अचिन्त्योऽनभिलाप्यत्वादलाप्यः परमार्थतः
परमार्थोऽप्रतवर्यत्वादतर्क्यो व्यनुमेयतः  +
व्यनुमेयोऽनुत्तरत्वादानुत्तर्यमनुद्ग्रहात्
अनुद्ग्रहोऽप्रतिष्ठानादगुणदोषाविकल्पनात्  +
पञ्चभिः कारणैः सौक्ष्म्यादिचिन्त्यो धर्मकायतः
षष्ठेनातत्त्वभावित्वादचिन्त्यो रूपकायतः  +
अनुत्तरज्ञानमहाकृपादिभि-
र्गुणैरचिन्त्या गुणपारगा जिनाः
अतः क्रमोऽन्त्योऽयमपि स्वयंभुवो
ऽभिषेकलब्धा न महर्षयो विदुरिति  +
ह्रद इव विमलाम्बुः फुल्लपद्मक्रमाढ्यः
सकल एव शशाङ्को राहुवक्त्राद्विमुक्तः
रविरिव जलदादिक्लेशनिर्मुक्तरश्मि-
र्विमलगुणयुतत्वाद्भाति मुक्तं तदेव  +