This is a property of type Text.
Showing 20 pages using this property.
विनेयधातौ विनयाभ्युपाये
विनेयधातोर्विनयक्रियायाम्
तद्देशकाले गमने च नित्यं
विभोरनाभोगत एव वृत्तिः
+विपुलानन्तमध्यत्वाद्बोधिराकाशधतुवत्
सम्यक्संबुद्धधर्मत्वात् सत्त्वधातुर्निधानवत्
+आगन्तुव्याप्त्यनिष्प त्तेस्तत्संक्लेशोऽभ्रराशिवत्
तत्क्षिंप्तिप्रत्युपस्थानात् करुणोद्वृत्तवायुवत्
+पराधिकारनिर्याणात् सत्त्वात्मसमदर्शनात्
कृत्यापरिसमाप्तेश्च क्रियाप्रश्रब्धिरा भवात्
+शक्रदुन्दुभिवन् मेघब्रह्मार्कमणिरत्नवत्
प्रतिश्रुतिरिवाकाशपृथिवीवत् तथागतः
+विशुद्धवैडूर्यमयं यथेदं स्यान्महीतलम्
स्वच्छत्वात्तत्र दृश्येत देवेन्द्रः साप्सरोगणः
+प्रासादो वैजयन्तश्च तदन्ये च दिवौकसः
तद्विमानानि चित्राणि ताश्च दिव्या विभूतयः
+अथ नारीनरगणा महीतलनिवासिनः
प्रतिभासं तमालोक्य प्रणिधिं कुर्युरीदृशम्
+अद्यैव न चिरादेवं भवेमस्त्रिदशेश्वराः
कुशलं च समादाय वर्तेरंस्तदवाप्तये
+प्रतिभासोऽयमित्येवमविज्ञायापि ते भुवः
च्युत्वा दिव्युपपद्येरंस्तेन शुक्लेन कर्मणा
+प्रतिभासः स चात्यन्तमविकल्पो निरीहकः
एवं च महतार्थेन भुवि स्यात्प्रत्युपस्थितः
+कृत्स्नं निष्पाद्य यानं प्रवरगुणगणज्ञानरत्नस्वगर्भं
पुण्यज्ञानार्करश्मिप्रविसुतविपुलानन्तमध्याम्बराभम्
बुद्धत्वं सर्वसत्त्वे विमलगुणनिधिं निर्विशिष्टं विलोक्य
क्लेशज्ञेयाभ्रजालं विधमति करुणा वायुभूता जिनानाम्
+तथा श्रद्धादिविमले श्रद्धादिगुणभाविते
सत्त्वाः पश्यन्ति संबुद्धं प्रतिभास स्वचेतसि
+लक्षणव्यञ्जनोपेतं विचित्रेर्यापथक्रियम्
चङ्क्रम्यमाणं तिष्ठन्तं निषण्णं शयनस्थितम्
+भाषमाणं शिवं धर्म तूष्णींभूतं समाहितम्
चित्राणि प्रातिहार्याणि दर्शयन्तं महाद्युतिम्
+तं च दृष्ट्वाभियुज्यन्ते बुद्धत्वाय स्पृहान्विताः
तद्धेतुं च समादाय प्राप्नुवन्तीप्सितं पदम्
+प्रतिभासः स चात्यन्तमविकल्पो निरीहकः
एवं च महतार्थेन लोकेषु प्रत्युपस्थितः
+स्वचित्तप्रतिभासोऽयमिति नैवं पृथग्जनाः
जानन्त्यथ च तत्तेषामवन्ध्यं बिम्बदर्शनम्
+तद्धि दर्शनमागम्य क्रमादस्मिन्नये स्थिताः
सद्धर्मकायं मध्यस्थं पश्यन्ति ज्ञानचक्षुषा
+भूर्यद्वत्स्यात् समन्तव्यपगतविषमस्थानान्तरमला
वैडूर्यस्पष्टशुभ्रा विमलमणिगुणा श्रीमत्समतला
शुद्धत्वात्तत्र बिम्बं सुरपतिभवनं माहेन्द्रमरुता-
मुत्पद्येत क्रमेण क्षितिगुणविगमादस्तं पुनरियात्