Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
त्याज्यत्वान् मोषधर्मत्वादभावात् सभयत्वतः
धर्मो द्विधार्यसंघश्च नात्यन्तं शरणं परम्  +
जगच्छरणमेकत्र बुद्धत्वं पारमार्थिकम्
मुनेर्धर्मशरीरत्वात् तन्निष्ठत्वाद्गणस्य च  +
रत्नानि दुर्लभोत्पादान निर्मलत्वात् प्रभावतः
लोकालंकारभूतत्वादग्रत्वान् निर्विकारतः  +
समला तथताथ निर्मला विमलाः बुद्धगुणा जिनक्रिया
विषयः परमार्थदर्शिनां शुभरत्नत्रयसर्गको यतः  +
गोत्रं रत्नत्रयस्यास्य विषयः सर्वदर्शिनाम्
चतुर्विधः स चाचिन्त्यश्चतुर्भिः कारणैः क्रमात्  +
शुद्ध्युपक्लिष्टतायोगात् निःसंक्लेशविशुद्धितः
अविनिर्भागधर्मत्वादनाभोगाविकल्पतः  +
बोध्यं बोधिस्तदङ्गानि बोधनेति यथाक्रमम्
हेतुरेकं पदं त्रीणि प्रत्ययस्तद्विशुद्धये  +
बुद्धज्ञानान्तर्गमात् सत्त्वराशे-
स्तन्नैर्मल्यस्याद्वयत्वात् प्रकृत्या
बौद्धे गोत्रे तत्फलस्योपचारा-
दुक्ताः सर्वे देहिनो बुद्धगर्भाः  +
संबुद्धकायस्फरणात् तथताव्यतिभेदतः
गोत्रतश्च सदा सर्वे बुद्धगर्भाः शरीरिणः  +
स्वभावहेत्वो फलकर्मयोग-
वृत्तिष्ववस्थास्वथ सर्वगत्वे
सदाविकारित्वगुणेष्वभेदे
ज्ञेयोऽर्थसंधिः परमार्थधातो  +
बुद्धाद्धर्मो धर्मतश्चार्यसंघः
संघे गर्भो ज्ञानधात्वाप्तिनिष्ठः।
तज्ज्ञानाप्तिश्चाग्रबोधिर्बलाद्यै-
र्धमैर्युक्ता सर्वसत्त्वार्थकृद्भिः  +
सदा प्रकृत्यसंक्लिष्टः शुद्धरत्नाम्वराम्बुवत्
धर्माधिमुक्त्यधिप्रज्ञासमाधिकरुणान्वयः  +
प्रभावानन्यथाभावस्निग्धभावस्वभावतः
चिन्तामणिनभोवारिगुणसाधर्म्यमेषु हि  +
चतुर्धावरणं धर्मप्रतिभोऽप्यात्मदर्शनम्
संसारदुःखभीरूत्वं सत्त्वार्थं निरपेक्षता  +
इच्छन्तिकानां तीर्थ्यानां श्रावकाणां स्वयंभुवाम्
अधिमुक्त्यातयो धर्माश्चत्वारः शुद्धिहेतवः  +
बीजं येषामग्रयानाधिमुक्ति-
र्माता प्रज्ञा बुद्धधर्मप्रसूत्यै
गर्भस्थानं ध्यानसौख्यं कृपोक्ता
धात्री पुत्रास्तेऽनुजाता मुनीनाम्  +
शुभात्मसुखनित्यत्वगुणपारमिता फलम्
दुःखनिर्विच्छमप्राप्तिच्छन्दप्रनिधिकर्मकः  +
फलमेषां समासेन धर्मकाये विपर्ययात्
चतुर्विधविपर्यासप्रतिपक्षप्रभावितम्  +
स हि प्रकृतिशुद्धत्वाद्वासनापगमाच्छुचिः
परमात्मात्मनैरात्म्यप्रपञ्चक्षयशान्तितः  +
सुखो मनोमयस्कन्धतद्धेतुविनिवृत्तितः
नित्यः संसारनिर्वाणसमताप्रतिवेधतः  +