This is a property of type Text.
Showing 20 pages using this property.
लेखका ये तदाकारा दानशीलक्षमादयः
सर्वाकारवरोपेता शून्यता प्रतिमोच्यते
+प्रज्ञाज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः
अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः
+अतोऽनागम्य बुद्धत्वं निर्वाणं नाधिगम्यते
न हि शक्यः प्रभारश्मी निर्वृज्य प्रेक्षितुं रविः
+जिनगर्भव्यस्थानमित्येवं दशंधोदितम्
तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः
+बुद्धः कुपद्मे मधु मक्षिकासु
तुषेसु साराण्य शुचौ सुवर्णम्।
निधिः क्षितावल्पफलेऽङ्कुरादि
प्रक्लिन्नवस्त्रेषु जिनात्मभावः
+जघन्यनारीजठरे नृपत्वं
यथा भवेन्मृत्सु च रत्नबिम्बम्।
आगन्तुकक्लेशमलावृतेषु
सत्त्वेषु तद्वत् स्थित एष धातुः
+पद्मप्राणितुषाशु चिक्षितिफलत्वक्पूतिवस्त्रावर-
स्त्रीदुःखज्वलनाभितप्तपृथिवीधातुप्रकाशा मलाः
बुद्धक्षौद्रसुसारकाञ्चननिधिन्यग्रोधरत्नाकृति-
द्विपाग्राधिपरत्नबिम्बविमलप्रख्यः स धातुः परः
+यथा विवर्णाम्बुजगर्भवेष्टितं
तथागतं दीप्तसहस्रलक्षणम्
नरः समीक्ष्यामलदिव्यलोचनो
विमोचयेदम्बुजपत्त्रकोशतः
+शुद्धिः प्राप्तिर्विसंयोगः स्वपरार्थस्तदाश्रयः
गम्भीर्यौदार्यमाहात्म्यं यावत्कालं यथा च तत्
+रागाद्यागन्तुकक्लेशशुद्धिरम्बुह्रदादिवत्
ज्ञानस्य निर्विकल्पस्य फलमुक्तं समासतः
+सर्वाकारवरोपेतबुद्धभावनिदर्शनम्
फलं तत्पृष्ठलब्धस्य ज्ञानस्य परिदीपितम्
+स्वच्छाम्बुह्रदवद्रागरजःकालुष्यहानितः
विनेयाम्बुरुहध्यानवार्यभिष्यन्दनाच्च तत्
+द्वेषराहुप्रमुक्तत्वा न्महामैत्रीकृपांशुभिः
जगत्स्फरणतः पूर्णविमलेन्दूपमं च तत्
+मोहाभ्रजालनिर्मोक्षाज्जगति ज्ञानरश्मिभिः
तमोविधमनात्तच्च बुद्धत्वममलार्कवत्
+अतुल्यतुल्यधर्मत्वात् सद्धर्मरसदानतः
फल्गुव्यपगमात्तच्च सुगतक्षौद्रसारवत्
+पवित्रत्वाद्गुणद्रव्यदारिद्रयविनिवर्तनात्
विमुक्तिफलदानाच्च सुवर्णनिधिवृक्षवत्
+धर्मरत्नात्मभावत्वाद् द्विपदाग्राधिपत्यतः
रूपरत्नाकृतित्वाच्च तद्रत्ननृप बिम्बवत्
+अनास्रवं व्याप्यविनाशधर्मि च
ध्रुवं शिवं शाश्वतमच्युतं पदम्
तथागतत्वं गगनोपमं सताम्
षडिन्दियार्थानुभवेषु कारणम्
+विभूतिरूपार्थविदर्शने सदा
निमित्तभूतं सुकथाशुचिश्रवे
तथागतानां शुचिशीलजिघ्रणे
महार्यसद्धर्मरसाग्रविन्दने
+स्वभावहेतुफलतः कर्मयोगप्रवृत्तितः
तन्नित्याचिन्त्यतश्चैव बुद्धभूमिष्ववस्थितिः