Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
तद्भावायोपवासव्रतनियमतया दानाद्यभिमुखाः
पुष्पादीनि क्षिपेयुः प्रणिहितमनसो नारीनरगणाः
वैडूर्यस्वच्छभुते मनसि मुनिपतिच्छायाधिगमने
चित्राण्युत्पादयन्ति प्रमुदितमनसस्तद्वज्जिनसुताः  +
यथैव वैडूर्यमहीतले शुचौ
सुरेन्द्रकायप्रतिबिम्बसंभवः
तथा जगच्चित्तमहीतले शुचौ
मुनीन्द्रकायप्रतिबिम्बसंभवः  +
यस्य येन च यावच्च यदा च विनयक्रिया
तद्विकल्पोदयाभावादनाभोगः सदा मुनेः  +
बिम्बोदयव्ययमनाविलताविलस्व-
चित्तप्रवर्तनवंशाज्जगति प्रवृत्तम्
लोकेषु यद्वदवभासमुपैति बिम्बं
तद्वन्न तत्सदिति नासदिति प्रपश्येत्  +
यथैव दिवि देवानां पूर्वशुक्लानुभावतः
यत्नस्थानमनोरूपविकल्परहिता सती  +
अनित्यदुःखानैरात्म्यशान्तशब्दैः प्रमादिनः
चोदयत्यमरान् सर्वानसकृद्देवदुन्दुभिः  +
व्याप्य बुद्धस्वरणैवं विभुर्जगदशेषतः
धर्म दिशति भव्येभ्यो यत्नादिरहितोऽपि सन्  +
देवानां दिवि दिव्यदुन्दुभिरवो यैद्वत् स्वकर्मोद्भवो
धर्मोदाहरणं मुनेरपि तथा लोके स्वकर्मोद्भवम्
यत्नस्थानशरीरचित्तरहितः शब्दः स शान्त्यावहो
यद्वत् तद्वदृते चतुष्टयमयं धर्मः स शान्त्यावहः  +
संग्रामक्लेशवृत्तावसुरबलजयक्रीडाप्रणुदनं
दुन्दुभ्याः शब्दहेतुप्रभवमभयदं यद्वत् सुरपुरे
सत्त्वेषु क्लेशदुःखप्रमथनशमनं मार्गोत्तमविधौ
ध्यानारूप्यादिहेतुप्रभवमपि तथा लोके निगदितम्  +
सार्वजन्यो हितसुखः प्रातिहार्यत्रयान्वितः
मुनेर् घोषो यतो दिव्यतूर्येभ्यो ऽतो विशिष्यते  +
शब्दा महान्तो दिवि दुन्दुभीनां क्षितिस्थितेषु श्रवणं न यान्ति
संसारपातालगतेषु लोके संबुद्धतूर्यस्य तु याति शब्दः  +
बह्व्यो ऽमराणां दिवि तूर्यकोट्यो नदन्ति कामज्वलनाभिवृद्धौ
एकस् तु घोषः करुणात्मकानां दुःखाग्निहेतुप्रशमप्रवृत्तः  +
शुभा मनोज्ञा दिवि तूर्यनिस्वना भवन्ति चित्तोद्धतिवृद्धिहेतवः
तथागतानां तु रुतं महात्मनां समाधिचित्तार्पणभाववाचकम्  +
यस्य धातोर्विनेयस्य येनोपायेन भूरिणा
या विनीतिक्रिया यत्र यदा तद्देशकालयोः  +
समासतो यत् सुखकारणं दिवि क्षिताव् अनन्तास्व् अपि लोकधातुषु
अशेषलोकस्फरणावभासनं प्रघोषम् आगम्य तद् अप्य् उदाहृतम्  +
यथा सूक्ष्मान् शब्दान् अनुभवति न श्रोत्रविकलो न दिव्यश्रोत्रे ऽपि श्रवणपथन् आयान्ति निखिलम्
तथा धर्मः सूक्ष्मः परमनिपुणज्ञानविषयः प्रयात्य् एकेषां तु श्रवणपथम् अविलष्टमनसाम्  +
प्रावृट्काले यथा मेघः पृथिव्याम् अभिवर्षति
वारिस्कन्धं निराभोगो निमित्तं सस्यसंपदः  +
करुणाम्बुदतस् तद्वत् सद्धर्मसलिलं जिनः
जगत्कुशलसस्येषु निर्विकल्पं प्रवर्षति  +
लोके यथा कुशलकर्मपथप्रवृत्ते वर्षन्ति वायुजनितं सलिलं पयोदाः
तद्वत् कृपानिलजगत्कुशलाभिवृद्धेः सद्धर्मवर्षम् अभिवर्षति बुद्धमेघः  +
भवेषु संवित्करुणावभृत्कः क्षराक्षरासङ्गनभस्तलस्थः
समाधिधारण्यमलाम्बुगर्भो मुनीन्द्रमेघः शुभसस्यहेतुः  +