Property:Sanskrit

From Buddha-Nature

This is a property of type Text.

Showing 20 pages using this property.
T
सर्वाभोगपरिस्पन्दप्रशान्ता निर्विकल्पिकाः
धियो विमलवैडूर्यशक्रबिम्बोदयादिवत्  +
प्रतिज्ञाभोगशान्तत्वं हेतुर्धीनिर्विकल्पता
दृष्टान्तः शक्रबिम्बादिः प्रकृतार्थसुसिद्धये  +
अयं च प्रकृतोऽत्रार्थो नवधा दर्शनादिकम्
जन्मान्तर्धिमृते शास्तुरनाभोगात् प्रवर्तते  +
यः शक्रवद्दुन्दुभिवत् पयोदवद्
ब्रह्मार्कचिन्तामणिराजरत्नवत्
प्रतिश्रुतिव्योममहीवदा भवात्
परार्थकृद्यत्नमृते स योगवित्  +
सुरेन्द्ररत्नप्रतिभासदर्शनः
सुदैशिको दुन्दुभिवद् विभो रुतम्
विभुर्महाज्ञानकृपाभ्रमण्डलः
स्फरत्यनन्तं जगदा भवाग्रतः  +
अनास्रवाद्ब्रह्मवदच्युतः पदा-
दनेकधा दर्शनमेति निर्मितैः
सदार्कवज्ज्ञानविनिःसृतद्युति-
र्विशुद्धचिन्तामणिरत्नमानसः  +
प्रतिरव इव घोषोऽनक्षरोक्तो जिनानां
गगनमिव शरीरं व्याप्यरूपि ध्रुवं च
क्षितिरिव निखिलानां शुक्लधर्मौषधीनां
जगत इह समन्तादास्प दं बुद्धभूमिः  +
शुभं वैडूर्यवच्चित्ते बुद्धदर्शनहेतुकम्
तद्विशुद्धिरसंहार्यश्रद्धेन्द्रियविरूढिता  +
ज्ञानाम्बुगुणरत्नत्वादग्रयानं समुद्रवत्
सर्वसत्त्वोपजीव्यत्वात् संभारद्वयमर्कवत्  +
शुभोदयव्ययाद्धुद्धंप्रतिबिम्बोदयव्ययः
मुनिर्नोदेति न व्येति शक्रवद्धर्मकायतः  +
अयत्नात् कृत्यमित्येवं दर्शनादि प्रवर्तते
धर्मकायादनुत्पादानिरोधादा भवस्थितेः  +
अयमेषां समासार्थ औपम्यानां क्रमः पुनः
पूर्वकस्योत्तरेणोक्तो वैधर्म्यपरिहारतः  +
बुद्धत्वं प्रतिबिम्बाभं तद्वन्न च न घोषवत्
देवदुन्दुभिवत् तद्वन्न च नो सर्वथार्थकृत्  +
महामेघोपमं तद्वन्न च नो सार्थबीजवत्
महाब्रह्मोपमं तद्वन्न च नात्यन्तपाचकम्  +
सूर्यमण्डलवत् तद्वन्न नात्यन्त तमोऽपहम्
चिन्तामणिनिभं तद्वन्न च नो दुर्लभोदयम्  +
प्रतिश्रुत्कोपमं तद्वन्न च प्रत्ययसंभवम्
आकाशसदृशं तद्वन्न च शुक्लास्पदं च तत्  +
पृथिवीमण्डलप्रख्यं तत्प्रतिष्ठाश्रयत्वतः
लौक्यलोकोत्तराशेषजगत्कुशलसंपदम्  +
बुद्धानां बोधिमागम्य लोकोत्तरपथोदयात्
शुक्लकर्मपथध्यानाप्रमाणारूप्यसंभव इति  +
बुद्धधातुर्बुद्धबोधिर्बुद्धधर्मा बुद्धकृत्यम्
गोचरोऽयं नायकानां शुद्धसत्त्वैरप्यचिन्त्यः  +
छन्दवीर्यस्मृतिध्यानप्रज्ञादिगुणभाजनम्
बोधिचित्तं भवत्यस्य सततं प्रत्यपस्थितम्  +